|
|
 |
 |
|
|
१२ शान्तिपर्व.jpg)
॥ श्रीः ॥
12.266. अध्यायः 266
Mahabharata - Shanti Parva - Chapter Topics
युधिष्ठिरेण भीष्मंप्रति धर्मप्रामाण्याक्षेपः॥ 1॥

Mahabharata - Shanti Parva - Chapter Text
युधिष्ठिर उवाच। 12-266-0x(6284)(75896)
सूक्ष्मं साधु समादिष्टं भवता धर्मलक्षणम्।
प्रतिभा त्यस्ति मे काचित्तां ब्रूयामनुमानतः॥ 12-266-1(75897)
भूयांसो हृदये ये मे प्रश्नास्ते व्याहृतास्त्वया।
इदं त्वन्यत्प्रवक्ष्यामि न राजन्निग्रहादिव॥ 12-266-2(75898)
इमानि हि प्राणयन्ति सृदन्त्युत्तारयन्ति च।
न धर्मः परिपाठेन शक्यो भारत वेदितुम्॥ 12-266-3(75899)
अन्यो धर्मः समस्थस्य विषमस्थस्य चापरः।
आपदस्तु कथं शक्याः परिपाठेन वेदितुम्॥ 12-266-4(75900)
सदाचारो मचो धर्मः संतस्त्वाचारलक्षणाः।
साध्यासाध्यं कथं शक्यं सदाचारो ह्यलक्षणः॥ 12-266-5(75901)
दृश्यते धर्मरूपेण ह्यधर्मं प्राकृतश्चरन्।
धर्मं चाधर्मरूपेण कश्चिदप्राकृतश्चरन्॥ 12-266-6(75902)
पुनरस्य प्रमाणं हि निर्दिष्टं शास्त्रकोविदैः।
वेदवादाश्चानुयुगं ह्रसन्तीतीह नः श्रुतम्॥ 12-266-7(75903)
अन्ये कृतयुगे धर्मास्त्रेतायां द्वापरे परे।
अन्ये कलियुगे धर्मा यथाशक्ति कृता इव॥ 12-266-8(75904)
आम्नायवचनं सत्यमित्ययं लोकसंग्रहः।
आम्नायेभ्यः पुनर्वेदाः प्रसृताः सर्वतोमुखाः॥ 12-266-9(75905)
ते चेत्सर्वप्रमाणं वै प्रमाणं ह्यत्र विद्यते।
प्रमाणं च प्रमाणेन विरुद्ध्येच्छास्त्रता कुतः॥ 12-266-10(75906)
धर्मस्य क्रियमाणस्य बलवद्भिर्दुरात्मभिः।
यदा विक्रियते संस्था ततः साऽपि प्रणश्यति॥ 12-266-11(75907)
विद्मश्चैनं न वा विद्मः शक्यं वा वेदितुं न वा।
अणीयान्क्षुरधाराया गरीयानपि पर्वतात्॥ 12-266-12(75908)
गन्धर्वनगराकारः प्रथमं संप्रदृश्यते।
अन्वीक्ष्यमाणः कविभिः पुनर्गच्छत्यदर्शनम्॥ 12-266-13(75909)
निपानानीव गोभ्याशे क्षेत्रे कुल्ये च भारत।
स्मृतो हि शाश्वतो धर्मो विप्रहीणो न दृश्यते॥ 12-266-14(75910)
कामादन्ये भयादन्ये कारणैरपरैस्तथा।
असन्तोऽपि वृथाचारं भजन्ते बहवोऽपरे॥ 12-266-15(75911)
धर्मो भवति स क्षिप्रं विलोमस्तेष्वसाधुषु।
अथैतानाहुरुन्मत्तानपि चावहसन्त्युत॥ 12-266-16(75912)
महाजना ह्युपावृत्ता राजधर्मं समाश्रिताः।
न हि सर्वहितः कश्चिदाचारः संप्रवर्तते॥ 12-266-17(75913)
तेनैवान्यः प्रभवति सोऽपरं बाधते पुनः।
दृश्यते चैव स पुनस्तुल्यरूपो यदृच्छया॥ 12-266-18(75914)
येनैवान्यः प्रभवति सोऽपरानपि बाधते।
आचाराणामनैकाग्र्यं सर्वेषामेव लक्षयेत्॥ 12-266-19(75915)
चिराभिपन्नः कविभिः पूर्वं धर्म उदाहृतः।
तेनाचारेण पूर्वेण संस्था भवति शाश्वती॥ ॥ 12-266-20(75916)
इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि षट्षष्ट्यधिकद्विशततमोऽध्यायः॥ 266॥
Mahabharata - Shanti Parva - Chapter Footnotes
12-266-2 निग्रहात् कुतर्काग्रहेण॥ 12-266-9 प्रसूताः सर्वतोमुखा इति ध. पाठः॥ 12-266-16 अपि वाचं हसन्त्युतेति ध. पाठः॥ 12-266-20 संस्था मर्यादा॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|